हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sundarakanda Sarga (Chapter) 20 – सुन्दरकाण्ड विंशः सर्गः (२०)


॥ प्रणयप्रार्थना ॥

स तां पतिव्रतां दीनां निरानन्दां तपस्विनीम् ।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।
अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥

कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये ।
सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ ३ ॥

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ।
व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः ।
गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ ५ ॥

एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि ।
कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥

देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥

एकवेणी धराशय्या ध्यानम् मलिनमम्बरम् ।
अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥

विचित्राणि च माल्यानि चन्दनान्यगरूणि च ।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥

महार्हाणि च पानानि शयनान्यासनानि च ।
गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।
मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥

इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते ।
यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ १२ ॥

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् ।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।
कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४ ॥

यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।
तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥

भव मैथिलि भार्या मे मोहमेनं विसर्जय ।
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ॥ १६ ॥

सर्वासामेव भद्रं ते ममाग्रमहिषी भव ।
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै ॥ १७ ॥

तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ।
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥ १८ ॥

जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ॥ १९ ॥

पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ।
असकृत्सम्युगे भग्ना मया विमृदितध्वजाः ॥ २० ॥

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ।
इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ २१ ॥

सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ।
साधु पश्यामि ते रूपं सम्युक्तं प्रतिकर्मणा ॥ २२ ॥

प्रतिकर्माभिसम्युक्ता दाक्षिण्येन वरानने ।
भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥ २३ ॥

यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।
रमस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥ २४ ॥ [ललस्व]

मत्र्पसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ।
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ २५ ॥

किं करिष्यसि रामेण सुभगे चीरवाससा ।
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥ २६ ॥

व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ।
न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ॥ २७ ॥

पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ।
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ॥ २८ ॥

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ २९ ॥

मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ।
क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् ॥ ३० ॥

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ।
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ॥ ३१ ॥

यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ।
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ॥ ३२ ॥

तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ।
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥ ३३ ॥

तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ।
न रामस्तपसा देवि न बलेन न विक्रमैः ।
न धनेन मया तुल्यस्तेजसा यशसाऽपि वा ॥ ३४ ॥

पिब विहर रमस्व भुङ्क्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं
त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥

कुसुमिततरुजालसन्ततानि
भ्रमरयुतानि समुद्रतीरजानि ।
कनकविमलहारभूषिताङ्गी
विहर मया सह भीरु काननानि ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥ २० ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.